वाचस्पत्यम्
श्वश्रू || स्त्री श्वशुरस्थ पत्नी ऊङ् उकाराकारलोपश्च । श्वशुर- भार्य्यायाम् अमरः । श्वश्रूस्नु षयोरविश्वासकारणं वरा- हपु० उक्तं यथा “एवमुक्त्वा स चोत्थाय शप्ता नारी तदा धरे! । या स्नुषाभिः समं शप्ता विश्वासो भवतु क्वचित् । सा च स्नुषा कदाचित् स्यात् या श्वश्रूं जी- वतीमिषेत्” ।
शब्दकल्पद्रुमः
श्वश्रूः || स्त्री (श्वशुरस्य स्त्री । श्वशुर + “श्वशुर- स्योकारलोपश्च ।” ४ । १ । ६८ । इत्यस्य वार्त्ति- कोक्त्या ऊङ् उकारलोपश्चं ।)
पतिपत्न्योः प्रसूः । इत्यमरः ॥ शाशुडी इति भाषा ॥ * ॥
तस्याः स्नुषाभिः सहाविश्वासकारणं यथा, — धर्म्मव्याध उवाच । “मया ते दुहिता दत्ता पुत्त्रार्थे वरवर्णिनी । सा च त्वद्भार्य्यया प्रोक्ता दुहिता जन्तुघातिनः ॥ अतोऽर्थमागतोऽहं ते गृहं प्रति समीक्षितुम् । आचारं देवपूजाञ्च अतिथीनाञ्च तर्पणम् ॥ एतेषागेकमप्यत्र कुर्व्वन्नपि न दृश्यते । तद्गृहं गन्तुमिच्छामि पितॄणां श्राद्धकाम्यया ॥ स्वगृहे नैव भुञ्जामि पितॄणां कार्य्यमित्युत । अहं व्याधो जीवघाती न तु तल्लोकहिंसकः ॥ मत्सुता जीवघातस्य यदूढा त्वत्सुतेन च । त्वन्महत्वञ्च संप्राप्तं प्रायश्चित्तं तपोधन ॥ एवमुक्त्वा स चोत्थाय शप्त्वा नारीं तदा धरे । मा स्नुषाभिः समं श्वश्र्वा विश्वासो भवतु क्वचित् मा च स्नुषा कदाचित् स्यात् या श्वश्रूं जीवतीमिषेत् । एवमुक्त्वा गतो व्याधः स्वगृहं प्रति भामिनि ॥” इति वाराहे आदिकृतवृत्तान्तनामाध्यायः ॥