संस्कृत-शब्दकोशः

श्वःश्रेयस श्वसन

श्वस

वाचस्पत्यम्

श्वस ||‍ जीवने अदा० जक्षा० धर० सक० सेट् । श्वधिति अश्व- सीत् । “न विश्वसेदविश्वस्ते इत्यादौ” तु गणव्यत्यासात् भ्वादित्वम् निष्ठा वेट् । श्वसितः श्वस्तः ।


वाचस्पत्यम्

श्वस ||‍ स्वप्रे अदा० प० अक० वैदिकोऽयस् । श्वस्ति अश्वसीत् ।


शब्दकल्पद्रुमः

श्वस || घ लु प्राणने । इति कविकल्पद्रुमः ॥ (अदा० पर०-अक०-सेट् ।)
“वकारयुक्तादिः । घ लु, श्वसिति लोकः जीवतीत्यर्थः । आश्वसेयुर्निशा- चरान् । इति भट्टौ । न विश्वसेत् पूर्व्वविरो- धितस्येति । पञ्चतन्त्रे । ‘तविखसेदविश्वस्तं विश्वस्ते नातिविश्वसेत् ।’ इत्यादौ च गणकृतमनित्यमिति न्यायात् शपः स्थितौ साध्यम् । अथवा हादेराकृतिगणत्वात् तत्र दष्टव्यम् । वस्तुतस्तु “पचादित्वादनि श्वस इवाचरतीति क्वौ साध्यम् ।” इति दुर्गादासः ॥


शब्दकल्पद्रुमः

श्वस || लुर स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०- पर०-अक०-सेट् ।)
लु, श्वस्ति । र, वैदिकः । इति दुर्गादासः ॥



Correction: