वाचस्पत्यम्
श्वस्त्य || त्रि० श्वोभवः श्वस् + त्यप् । भाविदिनस्थायिवस्तुनि ।
शब्दकल्पद्रुमः
श्वस्त्यं || त्रि (श्वो भवमिति । श्वस् + “एषमोह्यः श्वसोऽन्यतरस्याम् ।” ४ । २ । १०५ । इति त्यब् ।) श्वोभववस्तु । इति शब्दमाला ॥