वाचस्पत्यम्
श्वान || पुंस्त्री० श्वेव अण् न टिलोपः । कुकुरे शब्दमा० । तज्जातिस्त्रियां ङीष् ।
शब्दकल्पद्रुमः
श्वानः || पुं, (श्वा एव । श्वन् + स्वार्थे अण् ।) कुक्कुरः । इति शब्दरत्नावली ॥ (शुनां समूहः सण्डिकादित्वात् अञ् । कुक्कुरसमूहे, क्ली ॥)