वाचस्पत्यम्
श्वासकास || पु० श्वासयुक्तः कासः । श्वासयुक्ते कासरोगे “पिशुनो नरकस्यान्ते जायते श्वासकासवान् । घृतं तेनु प्रदातव्यं सहस्रपलसम्मितम्” शाता० कर्म० ।
शब्दकल्पद्रुमः
श्वासकासः || पुं, (श्वासयुक्तः कासः ।)
श्वासयुक्त- कासरोगः । श्वासजनककासः । यथा, —
“कासवृद्ध्या भवेच्छ्वासः पूर्व्वो वा दोषकोपनैः ।” इति गारुडे १५४ अध्यायः ॥ अन्यत् श्वासशब्दे द्रष्टव्यम् ॥