संस्कृत-शब्दकोशः

श्वासारि श्वि

श्वासिन्

वाचस्पत्यम्

श्वासिन् ||‍ पु० श्वासयति श्वस—णिच णिनि । वायौ शब्दच० ।


शब्दकल्पद्रुमः

श्वासी || [न्] पुं, (श्वासयतीति । श्वस + णिच् + णिनिः ।)
वायुः । इति शब्दरत्नावली ॥ (श्वासोऽस्यास्तीति । इनिः ।)
श्वासयुक्ते, त्रि ॥ (यथा, सुश्रुते । १ । २९ । “वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः । याम्यां दिशं प्राञ्जलयो विषमैकपदे स्थिताः । वैदां य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥ श्वासरोगयुक्ते च त्रि । यथा, तत्रैव । ६ । ५१ । “स्नेहवस्तिं विना केचिदूर्द्धञ्चाधश्च शोधनम् । मृदुप्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि ॥”



Correction: