संस्कृत-शब्दकोशः

श्वित श्वित्रघ्नी

श्वित्र

वाचस्पत्यम्

श्वित्र ||‍ न० श्वित—रक् । श्वेतकुष्ठभेदे (धवल) अमरः । तन्निदानादि भावप्र० उक्तं यथा “कुष्ठैकमम्भनं श्चित्रं किलास चारुणं भवेत् । निर्दिष्ट- मपरिसांवि त्रिधातूद्भवसंश्रयम्” । कुष्ठैकसम्भवं कुष्ठेन सह सम्भवो निदानं यस्य तत् । अथ श्वित्रस्य भदमाह किलासञ्चारुणं भवेत् श्वित्रमेव रक्तमांसाश्रयात्किलास- मरुणञ्च भवेदित्यर्थः । ननु कुष्ठात् श्वित्रस्य को भेद इत्यत आह निर्दिष्टमपरिस्रावीति श्वित्रमपरिस्रावि भ- वति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसंश्रयमिति श्वित्रम त्रयोधातवो रक्तवांसमेदांसि सश्रयोऽधिष्ठानं यस्य तत् । कुष्ठन्तु सान्निपातिकं मर्वधातुगतं भवतीति भदः । दोषभेदेव लक्षणभेदान्याह “वाताद्रूक्षारुणं पित्तात् ताम्रं कमलपत्रव! । सदाहं रोमविध्वंसि कफात् श्वेतं घनं गुरु सकण्डूकं क्रमाद्रक्तमांसमेदःसु चादिशेत् । वर्णेनेवेदृगुभय कुष्ठं तच्चोत्तरोत्तरम्” । अरु- णमीषल्नोहितम् । कमलपत्त्रवदित्यनेन मध्ये श्वेतमन्ते लाहित बोधयति । घनं पुष्टम् । क्रमाद्रक्तमांसमेदःसु आदिशेत् । तथा च चरकः “अरुणं रक्तगे वाते ताम्रं पित्ते पलङ्गते । श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परं- परम्” इति । उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव । अरुणं ताम्रं श्वेतञ्च दोषभेदात् । द्विविधं दोषजं व्रणजं च । तथा च भोजः “श्वित्रं तु द्विविधं विद्याद्दोषजं व्रणजं तथा” इति । श्वित्रं साध्यमसाध्यञ्चाह “अशुक्ल- रोमाबहलमसृग्युक्तमथो नबम् । अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा” । अब्रहलं तनु । अन्यच्च “गुह्यपाणितलाष्ठेषु जातमप्यचिरन्तनम् । वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता” । गुह्यं मेहनम् भगञ्च तलमत्र पदतलं सुश्रुतेनान्ते जातमिति सामान्यतो निर्दिष्टत्वात् । अप्यचिरन्तनम् नवमपि” ।


शब्दकल्पद्रुमः

श्वित्रं || क्ली (श्वेतते इति । श्वित शौक्ल्ये + “स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति रक् ।)
श्वेतकुष्ठम् । तत्पर्य्यायः । कुष्ठम् २ । वत्यमरः ॥ श्वेतम् ३ श्वेत्रम् । इति तट्टीका ॥ (यथा, भागवते । ७ । १ । १८ । “शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् । श्विनं न जातं जिहायां नान्धं विविशतुस्तमः ॥”)
अथ त्वगृष्टिसाम्यात् कुष्ठभेदत्वच्चात्रैव श्वित्र- माह । “कुष्ठैकसम्भवं श्वित्रं किलासञ्चारुणं भवेत् । निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥” कुष्ठैकसम्भवं कुष्ठोन सह एकस्तुल्यः सम्भवो निदानं यस्य तत् । श्वित्रस्य भेदानाह । किलासं चारुणं भवेत् । श्वित्रमेव रक्तमांसा- श्रयात् किलासमरुणं भवेत् इत्यन्वयः । ननु कुष्ठस्य श्वित्रस्य को भेदः इत्यत आह । निर्दिष्ट- मपरिस्रावीति । श्वित्रमपरिस्रावि भवति कुष्ठन्तु स्रावि अथच त्रिधातूद्भवसंश्रयमिति त्रयो धातवो वातपित्तकफास्तेभ्यः पृथग्भूतेभ्य उद्भवो यस्य तत् । अथ च त्रयो धातवो रक्त- मांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत् । कुष्ठं सान्निपातिकं सर्व्वधातुगतञ्च भवति इति भेदः ॥ दोषभेदेन लक्षणभेदमाह । “वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् । सदाहं रोमविध्वंसि कफाच्छेतं घनं गुरु ॥ सकण्डूकं क्रमात् रक्तं मांसमेदः स चादिशेत् । वर्णेनैवेदमुभयं कष्टं तच्चोत्तरोत्तरम् ॥” अरुणमीषल्लोहितम् । कमलपत्रवत् इत्यनेन मध्ये श्वेतभन्ते लोहितं बोधयति । “घनं पुष्टं क्रमाद्रक्तं मांसमेदासु चादिशेत् ।” तथा च चरकः । “अरुणं रक्तगे वाते ताम्रं पित्ते पलङ्गते । श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परं परम् ॥” इति ॥ उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव । अरुणं ताम्रं श्वेतञ्च दोषभेदात् । द्विविधं दोषजं व्रणजञ्च । तथा च भोजः । “श्वित्रञ्च द्विविधं विद्याद्दोषजं ब्रणजं तथेति ॥” श्वित्रं साध्यमसाध्यमाह । “अशुक्लरोमावहलमसंसृष्टं मिथो नवम् ॥ अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ॥” अवहलं तनु । अन्यच्च । “गुह्यपाणितलौष्टेषु जातमप्यचिरन्तनम् । वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता ॥” मुह्य मेहनं भगञ्च । तलमत्र पादतलम् । सुश्रुतेनान्ते जातमिति सामान्यतो निर्द्दिष्ट- त्वात् ॥ * ॥
अथ श्वित्रस्य चिकित्सा । “विभीतकत्वङ् मलपूजटानां क्वाथेन कृत्वा गुडसंयुतेन । अवल्गुजं बीजमपाकरोति श्वित्राणि कृच्छ्राण्यपि पुण्डरीकम् ॥” मलपूः कटुवरी । अवल्गुजः वाकुची ॥ १ ॥ “कुडवावल्गुजबीजं हरितालं तच्चतुर्थांशम् । मनःशिला तालकार्द्धा गुञ्चाफलमग्निमूलञ्च ॥ मूत्रेण गवां पिष्टं सवर्णताकारकं श्वित्रस्या ।” २ । “श्वित्रकुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा । गिरिकर्ण्याः सितायाश्च मूलेन परिलेपितम् ॥” गिरिकर्णी नीलापराजिता । धन्वन्तरौति लोके ॥ ३ ॥ “काथः सवाकुचीचूर्णं धात्रीखदिरसारयोः । शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हन्ति ॥ ४ ॥ मथितेन पिबेच्चूर्णं काकोदुम्बरवल्गुर्जम् । तैलाक्तं घर्म्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् ॥” मथितं निर्जलं विलोडितं दधि । तक्रं चतुर्थांश जलयुक्तं वस्त्रपुतं दधि ॥ ५ ॥ “खदिरस्य पलान्यष्टौ सोमराज्याः पलद्वयम् । त्रिफला पिचुमर्द्दश्च दारुदार्व्यथ पर्पटः ॥ पृथक् फलान् समुद्धृत्य सिंहिकायाः पलद्वयम् जलाढकद्वये साध्यं यावत् पादावशेषितम् ॥ क्वाथ्यमानञ्च मृद्वग्नौ घृतप्रस्थं विपाचयेत् । चतुःपलं सोमराज्याः खदिरस्य पलं तथा ॥ पटोलमूलत्रिफलात्रायमाणा दुरालभा । कषार्द्धं कटुकञ्चापि कार्षिकान् सूक्ष्मपेवितान् ॥ पलद्वयं कौषिकस्य शुद्धस्यात्र प्रदापयेत । सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम् ॥ अष्टादशानां कुष्ठानां परमं वै तथौषधम् । सोमराजीघृतं नाम निर्म्मितं ब्रह्मणा पुरा ॥ लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् ॥” इति सोमराजीघृतम् ॥ ६ ॥ “महौषधं महामेदां निम्बपत्राणि सर्षपाः । मनःशिला च सिन्दूरं पद्मवारिण्यवल्गुजम् ॥ हरिद्रे हरितालञ्च त्रिफला पीतगन्धकान् । एतानि समभागानि विषार्द्धांशानि योजयेत् ॥ सर्पिषश्च पलान्य ष्टौ देवदारुरसं शुभम् । हिगुणं त्रिगुणं क्षीरं गोमूत्रञ्च चतुर्गुणम् ॥ ताम्रपात्रे तु संस्थाप्य शनैर्म्मृद्वग्निना पचेत् । चतुर्भागावशेषन्तु सकल्कमवतारयेत् ॥ अग्नौ क्षिप्तन्तु निःशब्दं जलमुक्तं विचक्षणः । अभ्यङ्गपानयोगात्तदाशु सर्व्वान् गदान् जयेत् अष्टादशानां कुष्ठानां दद्रूणां श्वित्रिणां तथा दुष्टनाडीषु मर्त्यानां स्राविणां कीटिनां तथा । असृक्सावपरीता ये ये च त्यक्तभिषक्क्रियाः सर्व्वग्रहवियुक्तानां शीर्णाङ्गानां विशेषवः ॥ सर्व्वधातुगते कुष्ठे पतितभ्रूशिरोरुहम् । घर्घराव्यक्तघोषाणां तथा सर्व्वाङ्गवातिनाम् ॥ पानेऽभ्यङ्गे तथा नस्ये वस्तिकर्म्मणि नित्यशः । सप्तरात्रप्रयागेण सर्व्वकुष्ठानि नाशयेत् ॥ द्विसप्ताहप्रयोगेण पूर्णचन्द्रनिभाननः । जातकेशनखश्मश्रुर्भाति षोडशवर्षवत् ॥ अनङ्गसहितं साक्षात् सर्व्वामयविनाशनः । एतद्घृतं महाश्रेष्ठं भार्गवेणावतारितम् ॥ मनुष्याणां हितार्थाय सर्व्वव्याधिहरं परम् । महामार्त्तण्डकमिदं घृतं सर्व्वामरार्च्चितम् ॥ ७ ॥ इति भावप्रकाशः ॥ अपि च । “धात्रीखदिरयोः क्वाथं पीत्वा च जम्बुसंयुतम् । शङ्केन्दुधवलश्वित्रं हन्ति तूर्णं न संशयः ॥” इति गारुडे १७५ अध्यायः ॥



Correction: