वाचस्पत्यम्
श्वित्रिन् || त्रि० श्वित्रमस्त्यस्य इनि । श्वेतकुष्ठयुक्ते “श्वित्री वस्त्र श्वा रसं च चीरी लवणहारकः” याज्ञ० ।
शब्दकल्पद्रुमः
श्वित्री || [न्] त्रि, (श्वित्रमस्त्यस्येति । श्वित्र + इनिः ।)
श्वित्ररोगयुक्तः । यथा, —
“श्वित्री वस्त्रंश्वा रसन्तु चीरी लवणहारकः ॥” इति याज्ञवल्क्यः । ३ । २१५ ॥