वाचस्पत्यम्
श्विद || शुक्लतापादने भ्वा० आत्म० सक० सेट् इदित् । श्विन्दति अश्विन्दीत् ।
शब्दकल्पद्रुमः
श्विद || इ ङ शौक्ल्ये । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) वकारयुक्तः । इ, श्विन्द्यते । ङ, श्विन्दते पुण्डरीकम् । इति दुर्गादासः ॥