वाचस्पत्यम्
श्वेत || पु० श्वित—अच घञ् वा । १ द्वीपभेदे २ पर्वतभेदे ३ कप- र्दके हेमच० । ४ शुक्रग्रहे ५ पुभ्राभ्रे शब्दच० । ६ शङ्खे राजनि० । ७ जीवके जटा० । ८ शुक्लवर्णे ९ तद्वति त्रि० अमरः स्त्रियां ङीप् तस्य नश्च श्वेनी । १० कलियुगीय- शिवावतारविशेषे यथा “वेदध्यासावताराणि द्वापरे कथितानि तु । महादेवावताराणि कलौ शृणुत सुव्रत! । आदौ कलियुगे श्वेतो देवदेवो महाद्युतिः । नाम्रा हि- ताय विप्राणामभूद्वैपखतेऽन्मरे । हिमवच्छिस्वरे रम्ये छगले पर्वतोत्तमे । तस्य शिष्याः शिखायुक्ता बुभूवरमित- प्रभाः । श्वेतः श्वतशिखश्चैव श्वेतास्यः श्वेतलोहितः । चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः । सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा । लोकाक्षिरथ योगान्द्रो जैगीषव्यस्तु सप्तमे । अष्टमे दधिबाहुः स्यान्नवमे वृषभ प्रभुः । भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः । द्वादशेऽत्रिः समाख्यातो वाली चाथ त्रयोदशे । चतुर्दशे गौतमस्तु वेदशीर्षा ततः परम् । गाकणश्चामवत्तस्मात् गुहावासः शिखण्ड्यथ । जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् । श्वोतस्तथा परः शूली तिण्डो मुण्डी च वै क्रमात् । सहिष्णुः सोमशर्मा च नष्कुलीशोऽन्तिमे प्रभुः । वैवस्वतेऽन्तरे शम्भोरवतारास्त्रिशूलनः । अष्टा- विंशतिराख्याताह्यन्ते कलियगे प्रभोः” कौर्म ५० अ० । श्वेतपर्वतस्य परिमाणादि यथा “उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङवान् इति त्रयो रम्यकहिरणमय कुरूणां मर्य्यादागिरयः प्रागायताः उभयतः क्षारोदा- वधयो द्विसहस्नयोजनपृथव एकैकशः पूर्वस्यात् पूर्व- स्यादुत्तरोदशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति” भाग० । ५ । १६ । ११ राजभेदे वह्निपु० । संज्ञायां कन् । रूप्ये न० राजनि० । कपर्दके पु० ।
शब्दकल्पद्रुमः
श्वेतं || क्ली (श्वेतते इति । श्वित + अच् ।)
रूप्यम् । इत्यमरः ॥
शब्दकल्पद्रुमः
श्वेतः || त्रि (श्वेतो वर्णोऽस्यास्तीति । श्वेत + अर्श आद्यचु ।)
शुक्लवर्णयुक्तः । इत्यमरः ॥ * ॥
(यथा, रघुः । १ । ८३ । “ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला । बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥”)
श्वेतवस्तूनि यथा । अथ श्वेतानि । “सुधांशूच्चैःश्रवः शम्भुकीर्त्तिज्योत्स्नाशरद्घनाः । प्रासादसौधतगरमन्दारद्रुहिमाद्रयः ॥ सूर्य्येन्दुकान्तकर्पूरकरम्भारजतं हली । हिर्म्मोकभस्म हिण्डीरचन्दनं करका हिमम् ॥ हारोर्णनाभतन्त्वस्थि स्वर्गङ्गेभरदाभ्रकम् । शेषाहिः शर्करा दुग्धं दधि गङ्गा सुधाजलम् ॥ मृणालसिकता हंसवककैरवचामरम् । रम्भागर्भपुण्डरीककेतकोशङ्खनिर्झराः ॥ लोध्रसिंहध्वजच्छत्रचूर्णसूक्तिकपर्द्दकाः । मुक्ताकुसुमनक्षत्रदन्तपुण्योशनोगुणाः ॥ कलासकासकार्पासहासवासवकुञ्जराः । नारदः पारदः कुन्दखटिका स्फाटिकादयः ॥” इति कविकल्पलतायां द्वितीये श्लेषस्तवके वर्णो नाम द्वितीयं कुसुमम् ॥
शब्दकल्पद्रुमः
श्वेतः || पुं, (श्वेतते इति । श्वित शौक्ल्ये + पचाद्यच् ।)
शुक्लवर्णः । द्वीपविशेषः (यथा, महाभारते । १२ । ३३५ । ८ । “क्षीरोदवेर्योत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः ॥”)
पर्व्वतभेदः । इति मेदिनी ॥ (स तु जम्बुद्वीप- पर्व्वतानामन्यतमः । यथा, मार्कण्डेये । ५४ । ९ । “हिमवान् हेमकूटश्च ऋषभो मेरुरेव च । नीलः श्वेतस्तथा शृङ्गी सप्तास्मिन् वर्षपर्व्वताः ॥” श्वेतपर्व्वतस्य परिमाणादि यथा । “उत्तरोत्तरे णेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूणां मर्य्यादागिरयः प्रागा- यताः उभयतः क्षारोदावधयो द्विसहस्रयोजन- पृथव एकैकशः पूर्व्वस्मात् पूर्व्वस्मादुत्तरोत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति । एवं दक्षिणेनेलावृतं निषधा हेमकूटो हिमालय इति प्रागायत्ना यथा नोलादयः । अयुतयोजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथासंख्यम् ।” इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥ * ॥
कपर्द्दकः । इति हेमचन्द्रः ॥ शुक्रग्रहः । श्वेताभ्रः । इति शब्दरत्नावली ॥ शङ्खः । इति राजनिर्घण्टः ॥ जीवकः । इति जटाधरः ॥ शिवावतारविशेषः । यथा, —
“वेदव्यासावताराणि द्वापरे कथितानि तु । महादेवावताराणि कलौ शृणुत सुव्रताः ॥ आदौ कलियुगे श्वेतो देवदेवो महाद्युतिः । नाम्ना हिताय विप्राणामभूद्वैवस्वतेऽन्तरे ॥ हिमवच्छिखरे रस्ये छगले पर्वतोत्तमे । तस्य शिष्याः शिखायुक्ता बभूवुरमितप्रभाः ॥ श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । चत्वारस्ते महात्मानो व्राह्मणा वेदपारगाः ॥ सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा । लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ अष्टमे दधिबाहुः स्यान्नवमे वृषभप्रभुः । भृगुस्तु दशमे प्राक्तस्तस्तादुग्रः परः स्मृतः ॥ द्वादशेऽत्रिः समाख्यातो बाली चाथ त्रयो- दशे । चतुर्दशे गौतमस्तु वेदशीर्प्रा ततः परम् ॥ गोकणश्चाभवत्तस्मात् गुहावासः शिखण्ड्यथ । जटामाल्यट्टहासश्च दारुको लाङ्गलो क्रमात् ॥ श्व तस्तथापरः शूली तिण्डी मुण्डी च वै क्रमात् साहष्णुः सोमशर्म्मा च नकुलीशोऽन्तिमे प्रभुः ॥ ववस्वतेऽन्तरे शम्भोरवतारास्त्रिशूलिनः । अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः ॥” इति कौर्म्मे ५० अध्यायः ॥ * ॥
राजविशेषः । यथा, — ब्रह्मोवाच । “श्वेताभिजनसम्पन्नः सत्यवागनसूयकः । त्वयाधीतं हुतं दत्तं गुरवः परितोषिताः ॥ न ते दत्तं द्विजेभ्योऽन्नं कदाचिद्धि बुभुक्षिते । तस्मात्तोव्रेह संजाता क्षुधा ते नृपसत्तम ॥ अन्नदानादृते पुंसां न स्यात्तृप्तिर्महीतले । सर्गे वापि तथा नात्र अन्नदानं ततोऽधिकम् ॥” इति वह्निपुराणे अन्नदाननामाध्यायः ॥ (नागविशेषः । यथा, भागवते । ५ । २४ । ३१ । “ततोऽधस्तात् पाताले नागलोकपतयो वासुकि- प्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृत- राष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महा- भोगिनो महामर्षा निवसन्ति ॥”)