संस्कृत-शब्दकोशः

श्वेत श्वेतकण्टकारी

श्वेतक

शब्दकल्पद्रुमः

श्वेतकं || क्ली (श्वतमेव । स्वार्थे कन् ।)
रूप्यम् । इति राजनिघण्टः ॥


शब्दकल्पद्रुमः

श्वेतकः || पुं, (श्वेत एव । स्वार्थे कन् ।)
वराटकः । इति भूरिप्रयोगः ॥ (श्वेतशब्दार्थोऽप्यत्र ॥ श्वेतगुणविशिष्टे, त्रि । यथा, बृहत्संहिता- याम् । ८१ । १९ । “कृष्णश्वेतकपोतकताम्राणामीषदपि च विषमाणाभ् ॥”)



Correction: