संस्कृत-शब्दकोशः

श्वेतक श्वेतकन्दा

श्वेतकण्टकारी

वाचस्पत्यम्

श्वेतकण्टकारी ||‍ स्त्री कर्म० । शुभ्रवर्णकण्टकारिकायाम् राजनि० ।


शब्दकल्पद्रुमः

श्वेतकण्टकारी || स्त्री (श्वेता कण्टकारी ।)
शुक्ल- कण्टकारिका । श्वेत रेङ्गनी इति हिन्दी- भाषा । तत्पर्य्यायः । सितकण्टकारिका २ । श्वेता ३ क्षेत्रदूती ४ लक्ष्मणा ५ सितसिंही ६ सितक्षुदा ७ क्षुद्रवार्त्ताकिनी ८ सिता ९ सिक्ता १० कटुवार्त्ताकिनी ११ क्षेत्रजा १२ कपटे श्वरी १३ निःस्नेहफला १४ वामा १५ सित- कण्ठा १६ महीषधी १७ गर्द्दभी १८ चन्द्रिका १९ चान्द्री २० चन्द्रपुष्पा २१ प्रियङ्करी २२ नाकुली २३ दुर्लभा २४ रास्ना २५ । अरया गणाः । रुच्यत्वम् । कटुत्वम् । डष्णत्वम् । कफवातनाशित्वम् । चक्षुष्यत्वम् । दीपनत्वम् । रसनियामकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अन्यच्च । “श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका । गर्द्देभा चन्द्रभा चान्द्री चन्द्रपुष्पा प्रियङ्करी ॥ कण्टकारी सरा तिक्ता कटुका दीपनी लघुः । रूक्षोणा पाचनी कासश्वासज्वरकफानिलान् । निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान् । तयोः पलं कटुरसं पाके च कटुकं भवेत् ॥ शुक्रस्य रेचनं भेदि तिक्ता पिताग्निकृल्लघः । हन्यात् कफमरुत्कण्डूकासमेदःकृमिज्वरान् ॥ तद्वत् प्रोक्ता सिता क्षुद्रा विशेषाद्गर्भकारिणी ॥” इति भावप्रकाशः ॥



Correction: