वाचस्पत्यम्
श्वेतकुञ्जर || पु० कर्म० । १ ऐरावतगजे शब्दर० । २ श्वेतगज- मात्रे च श्वेतगजादयोऽप्यत्र ।
शब्दकल्पद्रुमः
श्वेतकुञ्जरः || पुं, (श्वेतः कुञ्जरः ।) ऐरावतहस्ती । इति शब्दरत्नावली ॥ शुक्लगजश्च ॥