वाचस्पत्यम्
श्वेतकेतु || पु० कर्म० १ वारुणे केतुग्रहभेदे २ छान्दोग्यवसिद्धे वारुणौ ऋषिभेदे ३ बुद्धे त्रिका० । “केतबो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते । ऊर्मि- केतुः श्वेतकेतुस मकतुस्तृतीयकः । श्वतकेतुरयदा दृश्यः श्वेतास्थिं करुत महीम् । तदा मानुषमांसानि भक्षय- न्तीह मानुषाः क्षुद्भयार्त्तं जमत् कृत्स्नं चक्रवद्र- भ्रमते तदा” । अपि च “श्वेतः शस्त्राकुलं कुर्य्यात् लोहितस्त्वग्निज भयम् । क्षुद्भय पीतकः कुर्य्यात् कृष्णो रोगमथोल्वणम्” । अन्यच्च “अवन्ती पुष्करारण्यं याव- द्धन्यात्तथापरान् । देशान् क्वचित् क्वच्चिद्रोगदुर्भिक्षैः परिपीडितान् । श्वेताख्यस्तु जटाकारी श्यःमो व्योम त्रिभागगः । निवर्त्ततेऽपसव्ये न त्रिभागी कुरुते प्रजाः” इति समयामृतधृतवाक्यम् ।
शब्दकल्पद्रुमः
श्वेतकेतुः || पुं, (श्वेतः केतुर्यस्य ।)
बुद्धः । इति त्रिकाण्डशेषः ॥ केतुग्रहविशेषः । यथा, —
“केतवो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते । ऊर्म्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ॥ श्वेतकेतुर्यदा दृश्येत् श्वेतास्थि कुरुते महीम् । तदा मानुषमांसानि भक्षयन्तीह मानुषाः ॥ क्षुद्भयार्त्तं जगत् कृतस्वं चक्रवद्भ्रमते तदा ॥” अपि च । “श्वेतः शस्त्राकुलं कुर्य्यात्लोहितस्त्वग्निजं भयम् क्षुद्भयं पीतकः कुर्य्यात् कृष्णो रोगमथोल्वणम् ॥” अन्यच्च । “अवन्ती पुष्करारण्यं यावद्धन्यात्तथापरान् । देशान् कचित् कृचिद्रोगदुर्भिक्षैः परिपीडितान् श्वेताख्यस्तु जटाकारी श्यामो व्योमत्रिभा- गगः । निवर्त्ततेऽपसव्येन त्रिभागीकुरुते प्रजाः ॥” इति समयामृतम् ॥ (मुनिविशेषः । यथा, महाभारते । १ । ५ । ३ । ७ । “उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः ॥” स तु उद्दालकमुनेः पुत्त्रः । पुरा किल नार्य्यः प्रायशः पूर्वपतिं परित्यज्य पत्यन्तरं जगृहुः । अनेन तु तद्दोषमपाकृष्य समाजमर्य्यादा स्थापिता । यथा, महाभारते । १ । १२२ । ९ — २० “बमूवोद्दालको नाम महषिरिति नः श्रुतम् । श्वेतकेतुरितिख्यातः पुत्त्रस्तस्याभवन्मुनिः ॥ मर्य्यातेयं कृता तेन धर्म्या वै श्वेतकेतुना । कोपात्कमसपत्राक्षि ! यदर्थं तं निबोध मे ॥ श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राहं ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥ ऋषिपुत्त्रस्ततः कोपं चकारामर्षचोदितः । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥ क्रूद्धं तन्तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह । मा तात कोप कार्षीस्त्वमेष धर्म्मः सनातनः ॥ अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥ ऋषिपुत्त्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे । चकार चैव मर्य्यादामिमां स्त्रीपुंसयोर्भुवि ॥ मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदाप्रभृति मर्य्यादा स्थितेयमिति नः श्रुतम् ॥ व्युच्चरन्त्याः पतिं नार्य्या अद्यप्रभुति पातकम् । भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ॥ भाय्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् । पतित्रतामेतदेव भविता पातकं भुवि ॥ पत्या नियुक्ता या चैव पत्नी पुत्त्रार्थमेव च । न करिष्यति तस्याश्च भविष्यति तदेव हि ॥ इति तेन पुरा भीरु मर्य्यादा स्थापिता बलात् उद्दालकस्य पुत्त्रेण धर्म्म्या वै श्वेतकेतुना ॥”)