वाचस्पत्यम्
श्वेतगज || पु० कर्म० । १ ऐरावते गजे हेमच० २ शुभ्रगजे च ।
शब्दकल्पद्रुमः
श्वेतगजः || पुं, (श्वेतः शुक्लो गजः ।) इन्द्रहस्ती । इति हेभचन्द्रः ॥ शुक्लवर्णहस्ती च ॥