वाचस्पत्यम्
श्वेतपर्णा || स्त्री श्वेतं पर्णं यस्याः । वारिपर्ण्यां (पाना) राजनि० ।
शब्दकल्पद्रुमः
श्वेतपर्णा || स्त्री (श्वेतानि पर्णानि यस्याः ।)
वारिपर्णो । इति रत्नमाला ॥ पाना इति भाषा ॥ (भद्राश्ववर्षस्य पर्वतविशेषे, पुं । यथा, मार्कण्डेये । ५९ । ४ । “पूर्वेण यत् स्थितं वर्षं भद्राश्वं तन्निबोध मे । श्वेतपर्णश्च नीलश्च शैवालश्चाचलोत्तमः । कौरञ्जः पणशालाग्रः पञ्चैते तु कुलाचलाः ॥”)
श्वेतपर्णासः, पुं, (श्वेतः पर्णासः ।)
श्वेततुलसी । यथा, —
“अर्ज्जकः श्वेतपर्णासो गन्धपत्रः कुठेरकः ॥” इति रत्नमाला ॥