वाचस्पत्यम्
श्वेतपिङ्गल || पुंस्त्री० देहेन श्वेतः जटया पिङ्गलः “वर्णोव- र्णन” पा० स० । १ सिंहे त्रिका० स्त्रियां ङीष् । २ श्वेतपिङ्ग- लवर्णे पु ३ तद्युते त्रि० ।
शब्दकल्पद्रुमः
श्वेतपिङ्गलः || पुं, (श्वेतः पिङ्गलश्च ।)
सिंहः । इति त्रिकाण्डशेषः ॥ शुक्लकपिलवणयुक्ते, त्रि ॥ (महादेवः । यथा, महाभारते । १३ । १७ । १३६ । “महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥”)