शब्दकल्पद्रुमः
श्वेतप्रसनकः || पुं, (श्वेतानि प्रसूनानि यस्य । कप् । वृक्षविशेषः । यथा, — “तिक्तः शाकतरुः सेतुवृक्षः श्वेतप्रसूनकः ।” इति शब्दमाला ॥ शुक्लपुष्पयुक्ते, ति ॥