वाचस्पत्यम्
श्वेतराजी || स्त्री श्वेतेन वर्णन राजते राज—अच् गौरा० ङीष् । चचेण्डायां राजनि० ।
शब्दकल्पद्रुमः
श्वेतराजी || स्त्री (श्वेतेन वर्णेन राजते इति । राज + अच् । गौरादित्वात् ङीष् ।) चचेण्डा । इति राजनिर्घण्टः ॥