वाचस्पत्यम्
श्वेतरोहित || पु० “वर्णोवर्णेन” पा० स० । १ पाटलवर्णे २ तद्वति त्रि० पुष्पेण श्वेतःफलेन लोहितः । ३ शुक्लरोहिते वृक्ष भेदे राजनि० ।
शब्दकल्पद्रुमः
श्वेतरोहितः || पुं, (पुष्पेण श्वेतः फलेन लोहितः लस्य रः ।)
वृक्षविशेषः । श्वेत रोहिड इति हिन्दी भाषा । तत्पर्य्यायः । सितपुष्पः २ सिताह्वयः ३ सिताङ्गः ४ शुक्लरोहितः ५ लक्ष्मीवान् ६ जनवल्लभः ७ । अस्य गुणाः । कटुत्वम् । स्निग्धत्वम् । कषायत्वम् । सुशी- तलत्वम् । कृमिदोषव्रणप्लीहरक्तनेत्नामयनाशि- त्वञ्च । इति राजनिर्घण्टः ॥