वाचस्पत्यम्
श्वेतवाहन || पु० श्वेतं वाहनं यस्य । १ चन्द्रे २ इन्द्रे ३ अ- र्जुने च मेदि० । ४ कर्पूरे च ।
शब्दकल्पद्रुमः
श्वेतवाहनः || पुं, (श्वेतं वाहनं यस्य ।)
चन्द्रः । अर्ज्युनः । इति मेदिनी ॥ (यथा, महाभारते । ४ । ४२ । १५ । “श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः । संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥”)
मकरः । इति शब्दरत्नावली ॥ (राजाधि- देवस्य पुत्त्रः । स तु विदूरथस्य पौत्त्रः । यथा, हरिवंशे । ३८ । २ । “राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् । राजाधिदेवपुत्त्रास्तु जज्ञिरे वीर्य्यवत्तराः । दत्तातिदत्तौ बलिनौ पानश्वः श्वेतवाहनः ॥”)