वाचस्पत्यम्
श्वेतशिग्रु || पु० कर्म० । सितशोभाञ्जने राजनि० ।
शब्दकल्पद्रुमः
श्वेतशिग्रुः || पुं, (श्वेतः शुक्लः शिग्रुः ।)
शुक्ल शोभाञ्जनः । सादा शजिना इति भाषा । तत्पर्य्यायः । सुतीक्ष्णः २ मुखभङ्गः ३ सिता- ह्वयः ४ सुमूलः ५ श्वेतमरिचः ६ रोचनः ७ मधुशिग्रुकः ८ । अस्य गुणाः । कटुत्वम् । तीक्ष्णत्वम् । शोफानिलाङ्गव्यथामुखजाड्यनाशि- त्वम् । रुच्यत्वम् । दीपनत्वञ्च । इति राज- निर्घण्टः ॥ “शिग्रुवल्कलपत्राणां सुरसः परमार्त्तिहृत् । चक्षुष्यं शिग्रुजं वीजं तीक्ष्णोष्णं विषनाशनम् । अवृष्यं कफवातघ्न तन्नस्येन शिरोऽर्त्तिनुत् ॥” इति भावप्रकाशः ॥