संस्कृत-शब्दकोशः

श्वेतहस्तिन् श्वेतात्रिवृत्

श्वेता

वाचस्पत्यम्

श्वेता ||‍ स्त्री श्वित—अच् । १ वराटिकायां २ काष्ठपाटलायां ३ शङ्खिन्यां मेदि० । ४ अतिविषायां रत्नमा० । ५ सितापुरा- जितायां ६ शुभ्रकण्टकार्य्यां ७ पाषाणभादन्या ८ शुभ्र- दूर्वायां ९ वंशरोचनायां १० शर्करायां ११ शिलावलकलायां १२ श्वेतवृहत्यां च राजनि० ।


शब्दकल्पद्रुमः

श्वेता || स्त्री वराटिका । काष्ठपाटला । शङ्खिनी । इति मेदिनी ॥ अतिविषा । इति रत्नमाला ॥ अपराजिता । श्वेतबृहती । श्वेतकण्टकारी । पाषाणभेदी । शिलावल्कला । श्वेतदूर्व्वा । वंशरोचना । स्फटी । शर्करा । वृक्षभेदः । केना इति कन्ने इति च हिन्दी भाषा । तत्- पर्य्यायः । छुरिकापत्री २ पर्व्वमूला ३ अवि- प्रिया ४ । अस्या गुणाः । अतिमधुरत्वम् । शीतलत्वम् । स्तन्यदातृत्वम् । रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥



Correction: