वाचस्पत्यम्
षकार || पु० ष + स्वरूपे कार । षस्वरूपवर्णे कामधेनुतन्त्रे उदा०
वाचस्पत्यम्
षकारः || मूर्द्धन्यः ऊष्मवर्णभेदः । अस्कोच्चारणस्थानं मूर्द्धा अस्योच्चारणे आभ्यन्तरप्रयत्र विवृतथर्द्धस्पृष्टता “येम- स्पृष्टाः शलस्तधा” शिक्षाक्तेः । बाह्यप्रवत्याञ्च विवाराश्वासा- धोषा महाप्राणश्च । ऊष्मरूपवायप्रधानत्वादस्य ऊद्मव- र्णता । अस्य ध्येयस्वरूपं यथा “षकारं शृणु चार्वङ्गि अष्टकोणमयं सदा । रक्तचन्द्रप्रतीकाशं स्वयंपरमकुण्डली । चतुर्वर्गमयं वर्णं सुधानिर्मितविग्रहम् । पञ्चदेवषयं वर्णं पञ्चप्राणमयं सदा । रस्तःसत्त्वतमोयुक्तं त्रिशक्ति- सहितं सदा । त्रिबिन्दुसाहतं वर्णमात्मादितत्त्वसंयुतम् । सर्वदेवमयं वर्णं हृदि भावय पार्वति!” कामधेनुतन्त्रम् । एताधष्ठानदेवताध्यानं यथा “चतुर्भुजां चकोराक्षीं चारुचन्दनचर्चिताम् । शुक्लवर्णां त्रिनयनां वरदाञ्च शुचिस्मिताम् । रत्नालङ्कारमूषाढ्यां श्वेतमाल्योपशो- भिताम् । देववृन्दैरभिबन्द्यां सेवितां मोक्षकाङ्क्षिभिः । एव ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् वर्णोद्धा- रतन्त्रम् । अस्य वाचकशब्दा यथा “षः श्वेतो वासुदेवश्च पिता प्रज्ञा विनायकः । परमेष्ठो वामबाहुः श्रेष्ठो गर्भविमोचनः । लम्बोदरो यमोऽजेशः कामधुक् काम- चूमकः । सुश्रीरूष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः । सूर्य्यात्मा जठरः कोषो माता रक्षोविदारिणी । कलकण्ठो मध्यभिन्ना युद्धात्मा मलपूः शिवाः” वर्णाभि- धानम् “मकारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञरुः । पित्तं शक्तिश्च माया च महायानिः स्वबिन्दुमत्” भन्त्रा- निषनम् । मातृकान्यासेऽस्य जठरे न्यास्यता । काव्यादौ प्रयोगेऽण फलम् स्वेदः “शः मुखं षस्तु स्वेटम्” वृ० र० टी० ||अत्र षादिशब्देषु षादितया ये धातवः पठितास्तेषां प्रयोगकाले दन्त्यसादित्वं सति च निमित्तं पुनः षत्वम् यथा षिध सेधति निधेधति “पट्टवर्गस्तवर्गस्वः” इत्युक्तेः यस्य प्रयोगकाले सत्वे तन्निमित्तटवर्गल तवर्गाविर्भवः यथा ष्टु स्तु स्तौति । ष्ठास्था वस्थौ ष्णा स्ना स्नाति । निमित्ते सति षत्वे च टुत्वे च प्रतिष्टौति प्रतिष्ठा निष्ठा निष्णाति । तत्र ष्ट्यैष्वक्कष्ठिवान्तु न सादेशस्तेन ष्ट्यायति ष्वक्कति ष्ठीव- तीत्येवेतेत्ति भेदः । ष्ठिवपर्युदासे ष्ठीवधातोरपि पर्युदासः ।