वाचस्पत्यम्
षट्कोण || न० षट् कोणा यस्य । १ वज्रे राजनि० । तन्त्रोके ऊर्द्धाः धस्ये त्रिकोणवयस्यपे यन्त्रमेदे । २ ज्यातिषोक्ते तग्ननः शष्ठस्यामे च दया० त० ।
शब्दकल्पद्रुमः
षट्कोणं || क्ली लग्नात् षष्ठगृहम् । तत्तु रिपु- स्थानम् । यथा, —
“पातालं हिबुकं चैव सुहृदम्भश्चतुर्थकम् । त्रित्रिकोणञ्च नवमं दुश्चिक्यं स्यात् तृतीयकम् ॥ धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् । द्युनं द्युनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
(षट् कोणा यस्य ।)
वज्रम् । इति राज- निर्घण्टः ॥ षडस्रन्तन्त्रोक्तो यन्त्रभेदः । यथा, गणेशयन्त्रम् । “वीजं षट्कोणमध्यं स्फु रदनलपुरे तारगं दिक्षु लक्ष्मीः माया कन्दर्पभूमिस्तदनु रसपुटेष्वालिखेद्बीज- षट्कम् ।” इति तन्त्रसारः ॥