वाचस्पत्यम्
षट्चरण || पुंस्त्री० षट् चरणा यस्य । १ भ्रमरे हला० स्त्रियां ङीष् । षट्शदादयोऽप्यत्र । २ यूकायां राजनि० ।
शब्दकल्पद्रुमः
षट्चरणः || पुं, (षट् चरणा यस्य ।)
भ्रमरः । इति हलायुधः ॥ (यथा, आर्य्यासप्तशत्याम् । ५८७ । “षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं त्यक्त्वा । त्वां मुष्टिमेयमध्यामधुना शक्तिं स्मरो वहति ॥”)
यूका । इति राजनिर्घण्टः ॥ षट्पादश्च ॥