वाचस्पत्यम्
षट्ट || निवामे वले च अक० हिंसायां दाने च सक० चुरा० उभ० मेट् । सट्टयति ते अससट्टत त । सिषट्टथिषति ।
शब्दकल्पद्रुमः
षट्टः || क निकेतने । हिंसे । दाने । बले । इति कविकल्पद्रुमः ॥ (चुरा०-पर० वासे बले च अक०-हिंसे दाने च सक०-सेट् ।)
मूर्द्धन्यादि- ष्टद्वयान्तः । क, षट्टयति लोकः । निवसति हन्ति बली स्यात् ददाति वा इत्यर्थः । इति दुर्गादासः ॥