संस्कृत-शब्दकोशः

षट्तिलिन् षट्त्रिंशदुपचार

षट्त्रिंशत्

वाचस्पत्यम्

षट्त्रिंशत् ||‍ स्त्री षडधिका त्रिंशत् शाक० । (छत्रिश) १ संख्याभेदे २ तत्संख्यान्विते च ।


शब्दकल्पद्रुमः

षट्त्रिंशत् || स्त्री (षडधिका त्रिशत् । मध्यपद- लोपि समासः ।)
संख्याविशेषः । छत्रिश इति भाषा । यथा, आह्निकचिन्तामणौ । “आसनाभ्यञ्जने तद्वदुद्बर्त्तनविरूक्षणे । सन्मार्जनं सर्पिरादिस्नपनावाहने तथा ॥ पाद्यार्घ्याचमनीयञ्च स्नानीयमधुपर्क्ककौ । पुनराचमनीयञ्च वस्त्रयज्ञोपवीतके ॥ अलङ्कारो गन्धपुष्पधूपदीपौ तथैव च । ताम्बूलादिकनैवेद्यं पुष्पमालां तथैव च ॥ अनुलेपश्च शय्या च चामरव्यजनं तथा । आदर्शदर्शनञ्चैव नमस्कारोऽथ नर्त्तनम् ॥ गोतवाद्ये च दानानि स्तुतिहोमप्रदक्षिणम् । दन्तकाष्ठप्रदानञ्च ततो देवविसर्ज्जनम् ॥ उपचारा इमे ज्ञेयाः षट्त्रिंशत् सुरपूजने ॥” इत्येकादशीतत्त्वम् ॥



Correction: