वाचस्पत्यम्
षट्त्रिंशन्मत || न० “मनुर्विष्णुर्यमो दसो ह्यङ्गिरोऽत्रिवृह- स्पती । आपस्तम्बश्चोशना च कात्यायप्रपराशरौ । वशिष्ठ- व्याससंवर्त्ता हारोतगोतमाबपि । प्रचेताः शङ्खलिखितौ याज्ञवल्क्यश्च काश्यपः । शांतातपो लोमशश्च जमदग्निः प्रजापतिः । तिश्वामित्रपैठानसी बौधायनपितामहौ । छागलेयश्च जावालो मरीचिश्च्यवनो भृगुः । ऋष्यशृङ्गा नारदश्च षट्त्रिंशत् स्मृतिकारकाः । एतेषान्तु मतं यत्तु षट त्रिंशन्मतमुच्यत” इति शङ्खलिखितोक्तमुनिभेदमते ।
शब्दकल्पद्रुमः
षट्त्रिंशन्मतं || क्ली (षट्त्रिं शतस्तत्संख्यकधर्म्म- शास्त्रकारिणां मुनीनां मतम् ।)
षडधिकत्रिंश- त्सङ्ख्यकधर्म्मशास्त्रप्रयोजकमुनीनामभिप्रायः । यथा । तथा च षट्त्रिंशन्मतम् । इति तिथि स्वरूपकथने तिथ्यादितत्त्वम् । तेषां नामानि यथा, —
“मनुर्विष्णुर्यमो दक्षः अङ्गिरोऽत्रिबृहस्पती । आपस्तम्बश्चोशना च कात्यायनपराशरौ ॥ वशिष्ठव्याससंवर्त्ता हारीतगोतमावपि । प्रचेताः शङ्खलिखितौ याज्ञवल्क्यश्च काश्यपः ॥ शातातपो लोमशश्च जमदग्निः प्रजापतिः । विश्वामित्रपैठीनसी बौधायनपितामहौ ॥ छागलेयश्च जावालो मरीचिश्च्यवनो भृगुः । ऋष्यशृङ्गो नारदश्च षट्त्रिंशत् स्मृति- कारकाः ॥ एतेषान्तु मतं यत्तु षट्त्रिंशन्मतमुच्यते ॥” इति शङ्खलिखितौ ॥