संस्कृत-शब्दकोशः

षट्पञ्चाशिका षट्पदप्रिय

षट्पद

शब्दकल्पद्रुमः

षट्पदः || पुं, (षट् पदानि यस्य ।)
भ्रमरः । इत्य- मरः ॥ (यथा, रघुः । ६ । ६९ । “न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥”)
तच्छकुनानि यथा, —
“ये षट्पदाद्याः शकुनानि तेषा- माश्चर्य्यरूपाणि निरूपयामः । श्रयेत वामो यदि मञ्जु गुञ्जन् पश्येत वा वामदिशं प्रसर्पन् । आस्वादयेद्वा कुसुमं प्रशस्तं भृङ्गस्तदा स्यात् सुमहान् प्रमोदः । अत्रापरे सन्ति च षट्पदा ये यात्रासु ते वामगताः प्रशस्ताः ॥” इति वसन्तराजशाकुने षट्पदादयः १५ वर्गः ॥ * यूका । इति राजनिर्घण्टः ॥ षट्चरणे, त्रि ॥ (षट्पदविशेष्टे च त्रि । यथा, महाभारते । १४ । ५ । १६ । “पुरञ्च ते सुगुप्तं स्यात् दृढप्राकारतोरणम् । अदृआट्टालकसंवाधं षट्पदं सर्व्वतोदिशम् ॥”)



Correction: