वाचस्पत्यम्
षट्प्रज्ञ || पु० षट् घु प्रज्ञ यस्य । “घर्मार्थकाममोक्षेषु लोक- त्त्वर्थयार प । पट स प्रज्ञा तु यस्यासौ पट प्रज्ञ- परिकीर्त्ततः” इत्युक्ते १ धर्मार्थाद्यभिज्ञे २ बौद्धे ३ कामुके त्रिका० ।
शब्दकल्पद्रुमः
षट्प्रज्ञः || पुं, (षट्सु रसेषु प्रज्ञा यस्य ।)
कामुकः । यथा, —
“षिड्गौ व्यलीकः षट्पज्ञः कामकेलिर्व्विदूषकः पीठकेलिः पीठमर्द्दो भविलश्छिदुरो विटः ॥” इति त्रिकाण्डशेषः ॥ (षट्सु धर्म्मादिषु प्रज्ञा यस्य ।)
धर्म्मादि- शास्त्रविज्ञः । यथा, —
“धर्म्मार्थकाममोक्षेषु लोकतत्त्वार्थयोरपि । षट्सु प्रज्ञास्ति यस्योच्चैः स षट्प्रज्ञ इति स्मृतः ॥” इति च त्रिकाण्डशेषः ॥