वाचस्पत्यम्
षडशीतिमुख || न० षडशीतेः तन्नामसंक्रान्तोर्मखञ् । “तु- लादिषडशीत्यह्नां षडशोतिमुखं क्रमात् । तच्चतुष्टयमेव स्यात् द्विस्वभावेषु राशिषु” “षड्विंशे धनुषो भागे द्वाविंशेऽनिमिषस्य च । मिथनऽष्टादशे भागे कन्यायास्तु चतुर्दशे” इति सूयसिद्धान्तोक्ते तुलादितः षडशीतिदि नान्तरितकाले