संस्कृत-शब्दकोशः

षडष्टक षडानाय

षडानन

वाचस्पत्यम्

षडानन ||‍ पु० षट् आननानि यस्य । कार्त्तिकेये अमर । षड्वदनादयोऽप्यत्र ।


शब्दकल्पद्रुमः

षडाननः || पुं, (कृत्तिकादीनां षण्णां स्तनपानार्थे षट् आननानि यस्य ।)
कार्त्तिकेयः । इत्यमरः ॥ (यथा, महाभारते । ३ । २३१ । २० । “स्तोष्यामि देवैरृषिभिश्च जुष्टं भक्त्या गुहं नामभिरप्रमेयम् । षडाननं शक्तिधरं सुवीरं निबोध चैतानि कुरुप्रवीर ! ॥”)
तस्य कार्त्तिकेयनामकारणं यथा, —
“अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य साखो विशाखश्च नैगमेयश्च पृष्ठजः ॥ अपत्यं कृत्तिकानाञ्च कार्त्तिकेयस्ततः स्मृतः ॥” इति मात्स्ये ५ अध्यायः ॥ (षट्सु वदनेषु, क्ली । यथा, रघः । १४ । २२ । “सर्व्वासु मातृष्वपि वत्सलत्वात् स निर्व्विशेषप्रतिपत्तिरासीत् । षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥”)



Correction: