संस्कृत-शब्दकोशः

षडानन षडाम्नाया

षडानाय

वाचस्पत्यम्

षडानाय ||‍ पु० षडगुणित आम्नायः शाक० । शिवस्य षडवक्त्र- विनिर्भते षट्प्रकारतन्त्रभेदे “अथेदानीं प्रवक्ष्यामि आ- म्रायकथनं पृथक् । पूर्वाम्नायो यदा मन्त्रस्तदा प्राच्यां दिशि स्वितः । सदाशिबोऽह भगवानाचारः परिकी- र्त्तितः । एवं वै दलिणाम्नायो दक्षिणस्यां दिशि- स्वितः । एवं हि पश्चिमाम्नायः पञ्चिमायां दिशि स्थितः । एवमेवोत्तराम्नाय उत्तरस्रां दिशि स्यितः । सुखमूर्द्ध्वकृतं देवि! यत् प्रोक्तं तव सन्निधौ । ऊर्द्ध्वाम्रायश्च कथितो देवानामपि दुर्लभः । यदा चाधोमुखं देवि! यत् प्रोक्तं गिरिज! प्रिये! । अध आम्नाय इत्युक्तः सत्यं सत्यं सुमध्यमे! । षडाम्नायाञ्च कथिताश्चोत्पत्तिक्रमनामतः । यस्मिन् यणिंश्च येदेवाः कथिताश्च वरानने ॥ तान्देवांश्च प्रवक्ष्यामि साधकानां हिताय वै । श्रीविद्याभेदसहिता तारा च त्रिपुरा तथा । भुवनेशी चान्नपूर्णा षूर्वाम्नाये प्रकीर्त्तिताः । वगलामुखी च वशिनी त्वरिता धनदा तथा” । वशिनी वालभैरवीत्यर्थः “महिषघ्नी महा- लक्ष्मार्दक्षिणाम्नायकीर्त्तिताः । महासरस्वती विद्या तथा वाग्वादिना पर० । प्रत्यङ्गिरा भवानी च पश्चिमा- म्नायकार्त्तिताः । कालिका भेदसहिता तारा भेदैश्च सं- युता । मातऋगी भैरवी च्छिन्ना तथा धूमावती परा । उत्तराम्नायकथिताः ककौ शौष्रफलप्रदाः । समस्तभेद- सहिताः लालिका याः प्रकीर्त्तिताः । द्वाविंशत्यक्षरी तासां दक्षिणाम्नायकीर्त्तिता । एकजटा षडाम्नाये महामोक्षप्रदायिनी । तत्परा परमा विद्या न विद्या- न्तरगोपिता । परप्रधानमन्त्राश्च ऊर्द्ध्वाम्नाये प्रकीर्त्तिताः । ऊर्द्धाम्नायो ह्यधश्चैव केवलं मोक्षदो भवेत् । धर्मार्थका- ममोक्षार्थे आम्नायान्ये प्रकीर्त्तिताः । यथोक्तविधिना भद्रे! कृत्वा फलमवाप्रुयात् । पूर्वाम्नायादिसर्वेषां विघानं शृणु सुन्दरि! । कृत्वा येनाशु लभते फलं यदु- त्तमोत्तमम् । षट कर्म फलदा नृणां षडाम्नायाः प्रकी- र्त्तिताः । उत्तरामनायो देवेशि । तेषामाशु फलप्रदः” इति समयाचारतन्त्रे षटले । आमनायभेदेनाचा- रभेद उक्तो यथा “पूर्वाम्नायोदितं कर्म पाशवं कथितं प्रिये! । यदुक्तं दक्षिणाम्नाये तदेव पाशकं स्मृतम् । पश्चिमाम्नायजं कर्म पशुवीरसमाश्रितम् । उत्तराम्नायजं कर्म दिव्यवीराश्रितं प्रिये! । दिव्योऽपि वीरभावेन साधयेत् पितृकानने । वीरासनं विना दिव्यः पूजयेत् पितृकानने । ऊर्द्ध्वाम्नायोदितं कर्मदिव्यभावा- श्रितं प्रिये!” इति निरुक्ततन्त्रे १ पटले ।



Correction: