संस्कृत-शब्दकोशः

षड्गया षड्गुण

षड्गव

वाचस्पत्यम्

षड्गव ||‍ त्रि० षड्भिर्गोभिराकृष्टः शकटः हलो व शाक० अच् समा० । षड्भर्गोभिराकृष्टे १ हलादौ “अष्टा- गवं धर्म्यहलं षड्गवं जीविकार्थिनाम्” इति स्मृतिः । षणां गवां समाहारः षच्समा० । २ षटषुगोषु न० ।


शब्दकल्पद्रुमः

षड्गवं || त्रि (षट् गावो यत्र । सम्यसे अच् ।)
गोषट्कयुक्तहलादि । यथा, —
“अष्टागवं धर्म्म्यहलं षड्गवं जीविकार्थिनाम् । चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥” इत्याह्निकाचारतत्त्वम् ॥ * ॥
प्रत्ययविशेषः । (सतु । “प्रकृत्यर्थस्य षट्त्वे षड्गवच् ।” ५ । २ । २९ । इत्यस्य वार्त्तिकोक्त्या भवति ॥)
यथा, —
“पशुभ्यो गोयुगं युग्मे परं षट्त्वे तु षड्गवम् ॥” इति हेमचन्द्रः ॥ (यथा च महाभारते । ८ । ३८ । ६ । “अन्यं तस्मै वरं दद्यां सौवर्णं हस्तिषड्गवम् ॥”)
षण्णां गवां समाहारः । इति द्विगुसमासनिष्प- न्नम् । तत्र, क्ली ॥



Correction: