वाचस्पत्यम्
षड्दुर्ग || न० षड्गुणितं दुर्गम् । “धन्वदुर्गं महीदुर्गमब्दुर्गं र्वार्क्षमेव वा । नृदुर्गं गिरिदुर्गं वा सभाश्रित्य वसेत् पुरम्” मनूक्ते दुर्गषट्के ।
शब्दकल्पद्रुमः
षड्दुर्गं || क्ली (षट् प्रकारं दुर्गम् ।)
षट्प्रकार- कोट्टम् । तद्यथा । धन्वदुर्गम् १ महीदुर्गम् २ गिरिदुर्गम् ३ मनुष्यदुर्गम् ४ मृद्दर्गम् ५ वन- दुर्गञ्च ६ । इति महाभारते राजधर्म्मः ।