संस्कृत-शब्दकोशः

षड्धा षड्भुज

षड्बिन्दु

वाचस्पत्यम्

षड्बिन्दु ||‍ पु० षड्बिन्दवो यत्र । १ कीटभेदे मेदि० । २ विष्णौ त्रिका० ।


शब्दकल्पद्रुमः

षड्बिन्दुः || पुं, विष्णुः । इति त्रिकाण्डशेषः । कीट- भेदः । इति मेदिनी । शिरोरोगस्य पक्वतैल- विशेषः । यथा, —
“एरण्डमूलं तगरं शताह्वा जीवन्तिका सैन्धवराम्निके च । भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम् ॥ अजापयस्तैलविमिश्रितञ्च चतुर्गुणे भृङ्गरसे विपक्वम् । षड्बिन्दवो नासिकयोः प्रदेयाः सर्व्वान्निहन्यु शिरसो विकारान् ॥ च्युतांश्च केशान् पलितांश्च दन्तान् निर्वध्य मूलान् सुदृढीकरोति सुपर्णगृध्रप्रतिमञ्च चक्षुः कुव्वन्ति बाह्वोरधिकं बलञ्च ॥” जीवन्तिकात्र हरीतकीशाकविशेषः । इति भावप्रकाशः ॥



Correction: