शब्दकल्पद्रुमः
षड्भुजः || त्रि (षट् भुजा यस्य ।)
षढस्तयुक्तः । यथा, —
“भीमस्त्रिपादस्त्रिशिराः षड् भुजो नवलोचनः । भग्नप्रहरणो रौद्रः कालान्तकयमोपमः ॥” इति ब्रह्मवैवर्त्तपुराणे माहेश्वरज्वररूपम् ॥ (यथा च महानिर्व्वाणतन्त्रे । ४ । १७ । “चतुर्भुजा त्वं द्विभुजा षड्भुजाष्टभुजा तथा । त्वमेव विश्वरक्षार्थं नानाशस्त्रार्थधारिणी ॥”)
चैतन्यदेवे, पुं, । स तु पुरुषोत्तमक्षेत्रे षड्भुजो भूत्वा श्रीजगन्नाथदेवशरीरे लीनोऽभूत् । इति लोकप्रसिद्धिः ॥