वाचस्पत्यम्
षड्रस || न० षण्णां रसानां समाहारः पात्रा० । “मधुरो लव- णस्तिक्तः कंषायोऽम्लः कटुस्तथा” इक्तुक्तेषु “मधुरं लौल्यमित्याहुरिक्ष्वादौ स च लक्ष्यते । लवणस्तु पटुः प्रोक्तः सैन्धवादौ स इष्यते । तिक्तस्तु पिचुमर्दादौ व्यक्त- मास्वाद्यते रसः । कषायस्तुवरस्तूक्तः स च पूगीफला- दिषु । कटुस्तु तीक्ष्णर्सज्ञः स्यात् मरीचादौ स चेष्यत” इत्युक्तस्थानेषु लक्ष्येषु षट्सु रसेषु । षडगुणितोरसः । तत्रार्थे पु० ।
शब्दकल्पद्रुमः
षड्रसः || पुं, (षट्प्रकारो रसः ।)
मधुरादि- षट्प्रकाररसः । यथा, —
“मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा । सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥” एषां नामलक्षणे । “मधुरं गौल्यमित्याहुरिक्ष्वादौ स च लक्ष्यते । लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥ तिक्तस्तु पिचुमर्द्दादौ व्यक्तमासाद्यते रसः । कषायस्तुवरस्तूक्तः स च पूगीफलादिषु । कटुस्तु क्षारसंज्ञः स्यान्मरीचादौ स चेष्यते ॥” इति राजनिर्घण्टः ॥ एषां गुणास्तत्तच्छब्दे द्रष्टव्याः ॥