शब्दकल्पद्रुमः
षड्रात्रं || क्ली (षण्णां रात्रीणां समाहारः ।)
षडहः । यथा, — सद्यःशौचं भवेद्विद्वन् तथा चोक्तं चतुर्व्विधम् । गर्भस्रावे च वेदोक्तं पूर्व्वकाले त्वचेतसः ॥ ब्राह्मणानामहोरात्रं क्षत्त्रियाणां दिनत्रयम् । षड्रात्रञ्चैव वैश्याणां शूद्राणां द्वादशा- ह्निकम् ॥” इति वामने १४ अध्यायः ॥