संस्कृत-शब्दकोशः

षड्वक्त्र षड्विध

षड्वर्ग

वाचस्पत्यम्

षड्वर्ग ||‍ पु० ६ त० । १ कामक्रोधलोभमोहमदमात्सर्येषु “व्या- जेष्ट षड्वर्गमिति” भट्टिः । “क्षेत्रं होराथ द्रेक्काणो नवांशो द्वादशांशकः । त्रिंशांशकश्च षड्वर्गस्त्र्यादिप्राप्त्या फलप्रदः” ज्योतिषाक्तेषु क्षेत्रादिषु षट्सु । स च ज्यो० त० उक्तो यथा “कुजशुक्रबुधेन्दर्कसौम्यशुक्रावनीभुवाम् । जीवार्किभानु- जेज्यानां क्षेत्राणि १ स्युरजादयः । विषमर्क्षेषु प्रथमा होराः २ स्युश्चण्डरोचिष । द्वितीयाः शशिनोयुक्षु व्यत्य- याद्गणयेत् सदा । स्वपञ्चनवमानां ये राशीनामधिपा- ग्रहाः । ते द्रेक्काणाधिपाराशौ द्रेक्काणा ३ स्त्रय एव हि । मेषकेसरिधनुषां मेषाद्याश्च नवांशकाः ४ । मृगकन्यावृषा- णाञ्च मृगाद्यास्तु नवांशकाः । तुलामिथुनकुम्भानां तु- लाद्याः समुदाहृताः । कर्किवृश्चिकमीनानां कर्कटाद्या नवांशकाः । चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा । नवमे द्यात्मकानाञ्च वर्गोत्तम इति स्मृतः । स्वनवांशस्तु राशीनां वर्गोत्तम इति स्मृतः । सर्वेषां मेषपूर्वाणां स्व- र्क्षाद्या द्वादशांशकाः ५ । कुजार्किगुरुसौम्यानां भागाः शुक्रस्य च क्रमात् । पञ्चपञ्चाष्टसप्तेषु ज्ञेयमोजःसु रा- शिषु । त्रिशांशा ६ व्यत्ययादेते युग्मराशिषु कीर्त्तिताः” । त्र्यधिकशुभाशुभप्राप्त्या शुभाशुभद इति बोध्यम् ।



Correction: