शब्दकल्पद्रुमः
षण्णाडीचक्रं || क्ली (षड्विधं नाडीचक्रम् ।)
नराणां जन्मादिषण्णक्षत्रघटितचक्रविशेषः । यथा, —
“जन्माद्यं कर्म्म ततोऽपि दशमं सांहातिकं षोडषभम् । समुदायमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥ आद्यात्तु पञ्चविंशं मानसमेवं नरः षडृक्षः स्यात् ॥” * ॥
तेषां फलम् । “इहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते । कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे ॥ मूर्त्तिद्रविणबन्धूनां हानिः सांहातिके तथा ॥ सन्तप्ते सामुदयिके मित्रभृत्यार्थसङ्क्षयः । वैनासिके विनाशः स्याद्देहद्रविणसम्पदाम् ॥” इति ज्योतिस्तत्त्वम् ॥