संस्कृत-शब्दकोशः

षत्व षन

षद

वाचस्पत्यम्

षद ||‍ गतौ चु० उभ० सक० सेट् । सादयति ते असीषदत् ।


वाचस्पत्यम्

षद ||‍ विषादे आकुलीभावे अक० हिंसायां गतौ च सक० तु० प० अनिट् । सीदति ऌदित् असदत् । ज्वला० । सदः सादः ।


शब्दकल्पद्रुमः

षद || ऌ ज औ श विषादे । शरणे । गतौ । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-विषादे अक०-अनिट् ।)
ऌ, असदत् । ज, सादः सदः । औ असात्सीत् । श, सीदती सीदन्ती । विषाद आकुलीभावः । सीदति राधा रासगृहे । शरणं हिंसा । इति दुर्गादासः ।


शब्दकल्पद्रुमः

षद || क गतौ । आङ्पूर्व्वोऽयम् । इति कविकल्प- द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
मूर्द्धन्यादि । क, आसादयति । इति दुर्गादासः ॥



Correction: