वाचस्पत्यम्
षन is an alternate of षण. षण(न) || दाने तना० उभ० सक० । सेट् षस्य सत्वे णस्य नत्वम् उदित् । दन्त्यान्त इत्येके सनोति सनु असनीत्—असानीत् असनिष्ट—असात । सिषणिषति सिसांसति इत्येके ।
वाचस्पत्यम्
षन is an alternate of षण. षण(न) || सम्भक्तो भ्वा० पर० सक० सेट् षस्य सत्वे णस्य नत्वम् । सनति असनीत् असानीत् । दन्त्यान्तोऽयमित्येके ।
शब्दकल्पद्रुमः
षन || द ञ उ दाने । इति कविकल्पद्रुमः ॥ (तना०- उभ०-सक०-सेट् । क्त्वावेट् ।)
द ञ, सनोति सनुते । उ सनित्वा सत्वा । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
षन || सम्भक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
सम्भक्तिः सेवनम् । सनति गुरुं लोकः । इति दुर्गादासः ।