वाचस्पत्यम्
षम्ब || सर्पणे भ्वा० पर० सक० सेट् । सम्बति असम्बीत् ।
शब्दकल्पद्रुमः
षम्ब || सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) सम्बति । इति दुर्गादासः ॥