संस्कृत-शब्दकोशः

षष्टि षष्टिका

षष्टिक

वाचस्पत्यम्

षष्टिक ||‍ पु० अष्ट्या अहोभिः पच्यते कन् । (षाटिया) १ धान्यभेदे अमरः । तत्रार्थ स्त्रीत्वमपि “षष्टिका कालशाकञ्च मू- लञ्च केमु तरत्” ति० त० । षष्ट्या क्रीतः कन् । २ षष्टि- मंख्यातद्रव्यक्रीते त्रि० ।


शब्दकल्पद्रुमः

षष्टिकः || पुं, (षष्टिरात्रेण पच्यन्ते इति । “षष्टिकाः षष्टिरात्रेण पच्यन्ते ।” ५ । १ । ९० । इति कन्- प्रत्ययेन निपातितः ।)
धान्यविशेषः । षष्टि- रात्रेण पच्यते षाटिया इति स्वामिसुभूती । इत्यमरभरतौ ॥ तत्पर्य्यायः । षष्टिशलिः २ षष्टिजः ३ स्निग्धतण्डुलः ४ षष्टिवासरजः ५ । अस्या गुणाः । “गौरो नीलः षष्टिकोऽयं द्विधा स्या- दाद्यो रुच्यः शीतलो दोषहारी । बल्यः पथ्यो दीपनो वीर्य्यवृद्धिं दत्ते तस्मात् किञ्चिदूनो द्वितीयः ॥” इति राजनिर्घण्टः ॥ षष्टिसंख्याक्रीते, त्रि ॥



Correction: