संस्कृत-शब्दकोशः

मथे मथ्य

मथ्

मथे विलोडने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- मथति

अर्थ−
१. मथ्नु,,
२. विचार गर्नु, मनन गर्नु,
३. हल्लिनु ।

कृदन्तरूपमाला

  • 1“मथे विलोडने” 2 ज्वलादिः।
  • 3 ‘--विलोटने’ इति पुरुषकारे 4 पाठः।
  • विलोटनम् = क्षोभणम्।
  • “गथे विलोडने…गथति… गथकः… इत्यादिकाशकृत्स्नीयधातुपाठे, तट्टीकायां च पाठः।” इति क्षी।
  • टीकायामत्र प्रकरणे पाठान्तरमस्य धातोः प्रदर्शितम्।
  • तत्र गथकः इति दर्शनात् काशकृत्स्नीयाः घटादिपाठमप्य- स्यानुमेनिरे इति ज्ञायते। ‘हिंसासंक्लेशयोर्मन्थेत्, मथेन्मथ्नाति लोडने।’ 5 इति देवः।
  • माथकः-थिका, माथकः-थिका, मिमथिषकः-षिका, मामथकः-थिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्वथतिवत् 6 ज्ञेयानि।
  • 7 मन्मथः, 8 मथः-माथः, 9 दण्डमाथः, 10 प्रमाथी 11, 12 इत्युरच्प्रत्यये रूपमेवम्।
  • मथ्यतेऽसौ जनैरिति मथुरा।
  • मथितावस्यां मधुलवणाविति मथुरा इत्यपि क्वचिद् व्युत्पादितम्। मथुरा।

प्रासङ्गिक्यः

  • ↑ (१२१३)
  • ↑ (१-भ्वादिः-८४८। सक। सेट्। पर।)
  • ↑ [अ]
  • ↑ (श्लो। ९८)
  • ↑ (श्लो। ९८)
  • ↑ (२९४)
  • ↑ १। मनो मथतीति मन्मथः। पचादिषु पाठात् बाहुलकेन अत्राच्प्रत्ययः। कर्मण्यणो- ऽपवादः।
  • ↑ २। ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति कर्तरि विकल्पेन णप्रत्ययः। पक्षे पचाद्यच्। तेन रूपद्वयम्।
  • ↑ ३। मथ्यतेऽनेन इति माथः = पन्थाः। दण्डभावो माथः दण्डमाथः = ऋजुः पन्थाः।
  • ↑ ४। ‘प्रे लपसृद्रुमथवदवसः’ (३-२-१४५) इत्यनेन तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु घिनुण्प्रत्ययः।
  • ↑ आ। ‘प्रमाथिनो वियुक्तानां हिंसकाः पापदुर्दुराः।।’ भ। का। ७। १२।
  • ↑ ५। ‘मन्दिवाशिमथि--’ [द। उ। ८-२१]



Correction: