संस्कृत-शब्दकोशः

मनोह्वा मन्तव्य

मन्

मनु अवबोधने


गणः- तनादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- मनुते

अर्थ−
१. जान्नु, बुझ्नु,
२. मान्य गर्नु, स्वीकार गर्नु,
३. विचार गर्नु,
४. मान्नु ।
अनु-
१. अनुमोदन गर्नु,
२. अनुमान गर्नु ।
अभि-
१. अभिमान गर्नु,
२. इच्छा गर्नु, चाहनु ।
अव-
१. अपमान गर्नु, भर्त्सना गर्नु ।
सम्-
१. अनुमोदन गर्नु, कबुल गर्नु ।

कृदन्तरूपमाला

  • 1“मनु अवबोधने” 2 ‘स्तम्भे मानयते, ज्ञाने मन्यते मनुते पदम्।।’ 3 इति देवः।
  • ‘--बोधने इति मैत्रेयः।’ इति मा।
  • धा।
  • वृत्तिटीका।
  • मानकः-निका, मानकः-निका, 4 मिमनिषकः-षिका, मम्मनकः-मंमनकः- निका;
  • मनिता-त्री, मानयिता-त्री, मिमनिषिता-त्री, मम्मनिता-मंमनिता-त्री;
  • इत्यादीनि सर्वाणि रूपाणि दैवादिकमन्यतिवत् 5 ज्ञेयानि।
  • क्विपि 6 हरिमत्-हरिमतौ-हरिमतः;
  • 7 मतः-तम्-तवान्, 8 मनितम्-तः-तवान्, 9 मनित्वा-मत्वा, 10 मेनका, 11 अभिमत्य, 12 मन्तिः, 13 मन्वानः इतीमानि रूपाणि अस्य धातोः विशेषेण संभवन्तीति विशेषः।
  • 14

प्रासङ्गिक्यः

  • ↑ (१२१९)
  • ↑ (८-तनादिः-१४७१। सक। सेट्। आत्म।)
  • ↑ (श्लो। १२५)
  • ↑ १। अस्य धातोः सेट्त्वात् सनि रूपमेवम्। एवं सन्नन्ते सर्वत्र बोध्यम्। शुद्धात् तृजादिषु च एवमेव ऊह्यम्।
  • ↑ (१२१७)
  • ↑ २। ‘गमः क्वौ’ (६-४-४०) इत्यत्र ‘गमादीनामिति वक्तव्यम्’ इति वचनात् क्विपि अनुनासिकलोपे, ‘ह्रस्वस्य--’ (६-१-७१) इति तुकि च रूपमेवम्।
  • ↑ ३। निष्ठायाम्, ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इति अनुनासिकलोपे रूपमेवम्।
  • ↑ ४। निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति निषेधस्यानित्यत्वादिट्। तदनित्यत्वे च, ‘कृती छेदने’ (तु। से। पर।) इतीदित्करणं लिङ्गम्। अन्यथा, ‘सेऽसिचि--’ (७-२-५७) इति वेट्कत्वात् सिद्धे किं तेन?’ इति अमख्याख्यायाम् (१-१०७) प्रतिपादितत्वात् मनितम् इत्यपि साधुरिति ज्ञेयम्। तथा-- ‘बुद्धं बुधितं मनितम्’ इत्यमरः। ‘एवमेव स्वामी’ इति प्र। सर्वस्वे।
  • ↑ ५। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे मनित्वा। इडभावपक्षे, अनुनासिकलोपे मत्वा इति रूपद्वयं बोध्यम्।
  • ↑ ६। ‘आशिषि च’ (३-१-१५०) इति वुन्। ‘नशिमन्योरलिट्येत्वं वक्तव्यम्’ (वा। ६-४-१२०) इति वचनात् एत्वे रूपमेवम्। “--‘मेनका’ इत्यपि भाषायां न प्राप्नोति। यदि तु इष्यते पृषोदरादित्वाद्भविष्यति। … ‘आशिषि चोपसंख्यानम्’ (वा। ७-३-४५) इति इत्वाभावः।” इति प्रकृतसूत्रभाष्ये (६-४-१२०) कैयटे प्रतिपादितम्।
  • ↑ ७। ल्यपि, ‘वा ल्यपि’ (६-४-३८) इत्यस्य व्यवस्थितविभाषाश्रयणाद् अत्र नान्तानिटां नित्यम् अनुनासिकलोपः। तेन अभिमत्य इत्येकमेव रूपम्।
  • ↑ ८। तनोत्यादित्वात् क्तिचि ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति दीर्घानुनासिकलोप- निषेधे रूपमेवम्।
  • ↑ आ। ‘कंसस्तृणीकृतरिपुः घृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३। ४।
  • ↑ [पृष्ठम्१००३+ २८]


मन स्तम्भे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- मानयते

अर्थ−
१. बन्द गर्नु, स्थिर रहनु,
२. मन्द हुनु,
३. गर्व गर्नु,
४. प्रतिकूल हुनु,
५. रोकिनु ।

कृदन्तरूपमाला

  • 1“मन स्तम्भे” 2 आकुस्मीयः।
  • ‘स्तम्भः = गर्वः…।
  • पक्षे मनतीति चन्द्रः’ इति क्षीरस्वामी।
  • ‘स्तम्भे मानयते, ज्ञाने मन्यते मनुते पदम्।।’ 3 इति देवः।
  • मानकः-निका, मिमानयिषकः-षिका;
  • मानयिता-त्री, मिमानयिषिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगालयतिवत् 4 ज्ञेयानि।
  • 5

प्रासङ्गिक्यः

  • ↑ (१२१८)
  • ↑ (१०-चुरादिः-१७१०। अक। सेट्। आत्म।)
  • ↑ (श्लो। १२५)
  • ↑ (३८८)
  • ↑ [पृष्ठम्१००२+ ३०]



Correction: