संस्कृत-शब्दकोशः

मसृणिका मस्क

मस्

मसी परिणामे


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- मस्यति

अर्थ−
१. रुपान्तर गर्नु, आकार बदल्नु ।
परि- माणे-
१. नाप्नु ।

कृदन्तरूपमाला

  • 1“मसी परिणामे” 2 परिणामः--विकारः।
  • ‘-- परिमाणे’ इति कविकल्पद्रुम-माधवीयधातुवृत्त्योः पाठः।
  • ‘समी--’ इति क्वचित् पाठः।
  • मासकः-सिका, मासकः-सिका, मिमसिषकः-षिका, मामसकः-सिका;
  • मसिता-त्री, मासयिता-त्री, मिमसिषिता-त्री, मामसिता-त्री;
  • इत्यादीनि समस्ता- न्यपि रूपाणि प्रातिस्विकरूपाणि विना भौवादिकग्रसतिवत् 3 ज्ञेयानि।
  • 4 मस्तः-मस्तवान्, मस्तकम्, 5 मासः, 6 मस्यन्-न्ती-ती, 7 मः-मसौ-मसः, इतीमानि रूपाण्यस्मात् सम्भवन्तीति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१२३३)
  • ↑ (४-दिवादिः-१२२१। अक। सेट्। पर।)
  • ↑ (४४०)
  • ↑ ४। ईदित्त्वात्, ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिण्निषेधे रूपमेवम्। निष्ठान्तात् संज्ञायां कन्प्रत्यये मस्तकम् इति भवति।
  • ↑ ५। मस्यते = परिमीयतेऽनेनेति मासः = त्रिंशद्दिनावधिकः कालविशेषः। एतच्च धातोरस्य परिमाणार्थकत्वे ज्ञेयम्। परिणामार्थकत्वे तु मस्यति = पदार्थान् परिणम- यतीत्यर्थे बाहुलकात् संज्ञायां घञि मासः इति सिद्ध्यति। मासूशब्दस्तु प्रकृत्यन्तरम्, नास्माद्धातोः सिद्धमिति ज्ञेयम्।
  • ↑ ६। शतरि दिवादित्वात् श्यनि रूपमेवम्।
  • ↑ ७। क्विपि धातुसकारस्य रुत्वे विसर्गे च रूपमेवम्।



Correction: