संस्कृत-शब्दकोशः

मस्क् मस्त

मस्ज्

टुमस्जो शुद्धौ


गणः- तुदादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- मज्जति

अर्थ−
१. स्नान गर्नु, नुहाउनु,
२. धुनु, स्वच्छ गर्नु, सफा गर्नु ।
नि-
१ डुब्नु, डुबुल्की लगाउनु ।

कृदन्तरूपमाला

  • 1“टु मस्जो शुद्धौ” 2 ‘शुद्ध्या स्नानम्, व्रुडनं च लक्ष्यते।’ इति क्षीरस्वामी।
  • व्रुडनम् = संवरणम्।
  • 3 मज्जकः-ज्जिका, मज्जकः-ज्जिका, 4 मिमङ्क्षकः-क्षिका, मामज्जकः-ज्जिका;
  • 5 मङ्क्ता-मङूक्त्री, मज्जयिता-त्री, मिमङ्क्षिता-त्री, मामज्जिता-त्री;
  • 6 मज्जन्-ती, मज्जयन्-न्ती, मिमङ्क्षन्-न्ती;
  • -- मङ्क्ष्यन्-न्ती-ती, मज्जयिष्यन्-न्ती-ती, मिमङ्क्षिष्यन्-न्ती-ती;
  • -- -- 7 मज्जयमानः, -- मामज्ज्यमानः;
  • -- मज्जयिष्यमाणः, -- मामज्जिष्यमाणः;
  • 8 सुमक्-सुमग्-सुमज्जौ-सुमज्जः;
  • -- -- -- 9 मग्नः-मग्नवान्, मज्जितः, मिमङ्क्षितः, मामज्जितः-तवान्;
  • मज्जः, मज्जः, मिमङूक्षुः, मामज्जः;
  • मङ्क्तव्यम्, मज्जयितव्यम्, मिमङ्क्षितव्यम्, मामज्जितव्यम्;
  • मज्जनीयम्, मज्जनीयम्, मिमङ्क्षणीयम्, मामज्जनीयम्;
  • 10 11 मद्ग्यम्-मद्ग्यः, मज्ज्यम्, मिमङ्क्ष्यम्, मामज्ज्यम्;
  • ईषन्मज्जः-दुर्मज्जः-सुमज्जः;
  • -- -- -- मज्ज्यमानः, मज्ज्यमानः, मिमङ्क्ष्यमाणः, मामज्ज्यमानः;
  • मद्गः, 12 मज्जथुः 13 मज्जः, मिमङ्क्षः, मामज्जः;
  • मङ्क्तुम्, मज्जयितुम्, मिमङ्क्षितुम्, मामज्जितुम्;
  • 14 मज्जा, मज्जना, मिमङ्क्षा, मामज्जा;
  • मज्जनम्, मज्जनम्, मिमङ्क्षणम्, मामज्जनम्;
  • 15 मङ्क्त्वा 16 -मक्त्वा, मज्जयित्वा, मिमङ्क्षित्वा, मामज्जित्वा;
  • प्रमज्ज्य, प्रमज्ज्य, प्रमिमङ्क्ष्य, प्रमामज्ज्य;
  • मज्जम् २ मङ्क्त्वा २ मक्त्वा २ मज्जम् २ मज्जयित्वा २ मिमङ्क्षम् २ मिमङ्क्षित्वा २ मामज्जम् २;
  • मामज्जित्वा २;
  • 17 मद्गुः, 18 मज्जा-मज्ज नौ-मज्जनः, 19 मञ्जूषा, 20 मद्गुरः।
  • 21

प्रासङ्गिक्यः

  • ↑ (१२३५)
  • ↑ (६-तुदादिः-१४१५। अक। अनि। पर।)
  • ↑ १। ण्वुलि, ‘झलां जश् झशि’ (८-४-५३) इति सकारस्य दकारे, तस्य श्चुत्वेन जकारः। एवमेव ण्यन्तेषु, यङन्तेषु, शुद्धे अजादिप्रत्ययेषु च रूपनिष्पत्तिरिति ज्ञेयम्।
  • ↑ २। सन्नन्तात् ण्वुलि, धातोरनिट्त्वेन झलादिप्रत्ययपरकत्वात्, ‘मस्जिनशोर्झलि’ (७-१-६०) इति नुमागमः। अत्र च ‘मिदचोऽन्त्यात् परः’ (१-१-४७) इति नियमं बाधित्वा, ‘मस्जेरन्त्यात् पूर्वं नुममिच्छन्ति अनुषङ्गादिलोपार्थम्’ (वा। १-१-४७) इति भाष्याद्युक्तप्रकारेण धातुजकारात् पूर्वं नुम्। तेन सकारस्य संयोगादिलोपे, कुत्वे च रूपमेवम्। एवमेव सन्नन्ते सर्वत्र प्रक्रियोह्या।
  • ↑ ३। तृचि अन्त्यात् पूर्वं नुमि, ‘स्कोः संयोगाद्योरन्ते च’ (८-२-२९) इति संयोगादिलोपे रूपमेवम्। एवमेव तव्यदादिष्वपि ज्ञेयम्।
  • ↑ ४। शतरि, तुदादित्वात् शपोऽपवादत्वेन शप्रत्यये जश्त्वश्चुत्वयो रूपमेवम्।
  • ↑ ५। शुद्धेश्चेतनकर्तृकत्वे, ण्यन्तात्, ‘अणावकर्मकात्--’ (१-३-८८) इति परस्मैपदमेव। अचित्तवत्कर्तृकत्वे तु आत्मनेपदमपीत्यतोऽत्रात्मनेपदम्।
  • ↑ ६। क्विपि, संयोगादिलोपे, जकारस्य कुत्वे च रूपमेवम्।
  • ↑ ७। निष्ठायाम्, ‘मस्जिनशोः--’ (७-१-६०) इति नुमि, सकारस्य संयोगादिलोपे, नुमो नकारस्य ‘अनिदिताम्--’ (६-४-२४) इति लोपे, ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वे, नत्वस्यासिद्धत्वेन झल्परकत्वात् ‘चोः कुः’ (८-२-३०) इति कुत्वे च रूपमेवम्।
  • ↑ [पृष्ठम्१०११+ २८]
  • ↑ १। ण्यति, ‘चजोः कु घिण्णयतोः’ (७-३-५२) इति धातुजकारस्य कुत्वे सकारस्य जश्त्वेन दकारे च रूपमेवम्। घञ्यप्येवमेव रूपनिष्पत्तिरिति ज्ञेयम्।
  • ↑ २। भावे, ‘ट्वितोऽथुच्’ (३-३-८९) इत्यथुच्प्रत्यये रूपमेवम्।
  • ↑ आ। ‘तल्पे कान्तान्तरैः सार्धं मन्येऽहं धिङ् निमज्जथुम्।।’ भ। का। ५। २०।
  • ↑ ३। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्यये रूपमेवम्। केचित्तु क्तिनि, नुमि नलोपे च मक्तिरिति साधयन्ति। ‘प्रसज्य चापवादविषयं तत उत्सर्गोऽभिनिवि- शते’ (परि। ६५) इति न्यायानुसरणे तु मज्जा इत्यकारप्रत्ययान्तं रूपमेव न्याय्य- मिति प्रतिभाति।
  • ↑ ४। क्त्वाप्रत्यये, ‘जान्तनशां विभाषा’ (६-४-३२) इत्यनुनासिकलोपनिषेधविकल्पः। निषेधविकल्पे विधिविकल्पपर्यवसानात् अनुनासिकलोपो विभाषा भवतीति ज्ञेयम्। तेन रूपद्वयम्।
  • ↑ B। ‘अध्यास्त यं नक्रकुलं स्थवीयो द्विपोऽप्यमङ्क्त्वा न यमुत्ततार।’ वा। वि। ३। ३८।
  • ↑ ५। ‘भृमृशीतॄचरित्सरितनिमिमस्जिभ्य उः’ (द। उ-१-९२) इत्युप्रत्यये रूपमेवम्। मज्जत्यम्भसीति मद्गुः = जलपक्षिविशेषः। न्यङ्क्वादि (७-३-५३) पाठात् जकारस्य कुत्वेन गकारः।
  • ↑ ६। ‘श्वन्नुक्षन्--’ (द। उ। ६-५५) इत्यादिना कनिन्प्रत्यये रूपमेवम्। मज्जत्यस्थिष्विति मज्जा = अस्थ्यन्तसारः। नकारान्तोऽयं शब्दः।
  • ↑ ७। ‘मस्जेर्नुम् च’ (द। उ। ९-१८) इत्यूषन्प्रत्यये, नुभागमे च रूपमेवम्। मज्जत्यस्या- मिति मञ्जूषा = पेटिका।
  • ↑ ८। बाहुलकादौणादिकेऽरप्रत्यये न्यङ्क्वादित्वात् (७-३-५३) कुत्वे च रूपम्। मद्गुरः = जलपक्षिविशेषः।
  • ↑ [पृष्ठम्१०१२+ २८]



Correction: